|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.10. अध्यायः 010
Mahabharata - Strii Parva - Chapter Topics
मृतबन्धुदिदृक्षया समरभूमिं गच्छतो धृतराष्ट्रस्य मध्येमार्गं कृपकृतवर्मद्रौणिभिः समागमः॥ 1 ॥ तेषां त्रयाणां धृतराष्ट्राश्वासनपूर्वकंस्वाभिमतदेशगमनम्॥ 2 ॥

Mahabharata - Strii Parva - Chapter Text
वैशम्पायन उवाच। 11-10-0x(5337)(65078)
क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान्।
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च॥ 11-10-1(65079)
ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम्।
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन्॥ 11-10-2(65080)
पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम्।
गतः सानुचरो राजञ्शक्रलोकं महीपते॥ 11-10-3(65081)
दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः।
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ॥ 11-10-4(65082)
इत्येवमुक्त्वा राजानं कृपः शारद्वतस्ततः।
गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत्॥ 11-10-5(65083)
अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून्।
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः॥ 11-10-6(65084)
ध्रवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान्।
भास्वरं देहमास्थाय विहरन्त्यमरा इव॥ 11-10-7(65085)
सर्वे ह्यभिमुखा राज्ञि युध्यमाना हता युधि।
न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः।
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः॥ 11-10-8(65086)
एतां तां क्षत्रियस्याहुः पुराणाः परमां गतिम्।
शस्त्रेण निधनं सङ्ख्ये तान्न शोचितुमर्हसि॥ 11-10-9(65087)
न चापि शत्रवस्तेषां मुच्यन्ते राज्ञि पाण्डवाः।
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः॥ 11-10-10(65088)
अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम्।
सुप्तं शिबिरमासाद्य पाण्डूनां कदनं कृतम्॥ 11-10-11(65089)
पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः।
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः॥ 11-10-12(65090)
तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते।
प्राद्रवाम रणे स्थातुं न हि शक्ष्यामहे त्रयः॥ 11-10-13(65091)
ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः।
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः॥ 11-10-14(65092)
ते हतानात्मजाञ्श्रुत्वा प्रमत्ताः पुरुषर्षभाः।
अन्विष्यन्तः पदं शूराः क्षिप्रमेष्यन्ति पाण्डवाः॥ 11-10-15(65093)
तेषां तु किल्बिषं कृत्वा संस्थातुं नोत्सहामहे।
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः॥ 11-10-16(65094)
राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम्।
दिष्टान्तं पश्य चापि त्वं क्षात्रं धर्मं च केवलम्॥ 11-10-17(65095)
इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम्।
कृपश्च कृतवर्मा च द्रोमपुत्रश्च भारत॥ 11-10-18(65096)
अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम्।
गङ्गामनु महाराज तूर्णमश्वानचोदयन्॥ 11-10-19(65097)
अपक्रम्य तु ते राजन्सर्व एव महारथाः।
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्तदा॥ 11-10-20(65098)
जगाम हास्तिनपुरं कृपः शारद्वतस्तदा।
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ॥ 11-10-21(65099)
एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम्।
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम्॥ 11-10-22(65100)
समेत्य वीरा राजानं तदा त्वनुदिते रषौ।
विप्रजग्मुर्महात्मानो यथेष्टकमरिन्दमाः॥ 11-10-23(65101)
[समासाद्याथ वै द्रौणिं पाण्डुपुत्रा महारथाः।
व्यजयंस्ते रणे राजन्विक्रम्य तदनन्तरम्॥] ॥ 11-10-24(65102)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि दशमोऽध्यायः॥ 10 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-10-14 वैरं प्रतिचिकीर्षव इति क.पाठः॥ 11-10-17 दिष्टान्तं मरणम्॥ 11-10-24 तदनन्तरं कृपाचार्यकृतवर्मभ्यां वियोगानन्तरम्॥ 11-10-10 दशमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|